Stotra Mix-Deity

Navgrah Stotram

नवग्रह स्तोत्रं

Navgrah Stotram / नवग्रह स्तोत्रं

आदित्य च सोमाय मंगलाय बुधायाचा l
गुरु शुक्र शनिभ्याच रहुवे केतुवे नमः ll

जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् l
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ll

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् l
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ll

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् l
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ll

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् l
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ll

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् l
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ll

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् l
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ll

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् l
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ll

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् l
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ll

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् l
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ll

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति
नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्
गृहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः

ll इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम् ll



Related posts to Mix-DeityNew
Categories
Aarti
2
Blog
2
Chalisa
10
Katha
2
Kavach
2
Mantra
13
Stotra
22
Tantra
5
Yantra
0
Deities
Baglamukhi
1
Bhairav
1
Blog
1
Das-Mahavidya
1
Devi
1
Dhumavati
1
Durga
8
Ganesh
2
Hanuman
1
Kali
2
Kamakhya
1
Khatu-Shyam
0
Krishna
1
Kuber
0
Laxmi
3
Mangal
0
Matangi
1
Mix-Deity
4
Narayan
1
Radha
2
Ram
1
Sai-Baba
1
Saraswati
3
Shakti
2
Shani
1
Shiv
13
Shodasi
1
Surya
3
Yakshini
1

Subscribe to our mailing list!

We don't spam