भज गौरीशं भज गौरीशं गौरीशं भज मंदमते । (ध्रुवपदम)
जलभवदुस्तरजलधिसुतरणं ध्येयं चित्ते शिवहरचरणम् ।
अन्योपायं न हि न हि सत्यं गेयं शंकर शंकर नित्यम् । भज. ।।1।।
दारापत्यं क्षेत्रं वित्तं देहं गेहं सर्वमनित्यम् ।
इति परिभावय सर्वमसारं गर्भविकृत्या स्वप्नविचारम् । भज. ।।2।।
मलवैचित्ये पुनरावृत्ति: पुनरपि जननीजठरोत्पत्ति: ।
पुनरप्याशाकुलितं जठरं किं नहि मुञ्चसि कथयेश्चित्तम् । भज. ।।3।।
मायाकल्पितमैन्द्रं जालं न हि तत्सत्यं दृष्टिविकारम् ।
ज्ञाते तत्त्वे सर्वमसारं मा कुरु मा कुरु विषयविचारम् । भज. ।।4।।
रज्जौ सर्पभ्रमणारोपस्तद्वद्ब्रह्मणि जगदारोप: ।
मिथ्यामायामोहविकारं मनसि विचारय बारम्बारम् । भज. ।।5।।
अध्वरकोटीगंगागमनं कुरुते योगं चेन्द्रियदमनम् ।
ज्ञानविहीन: सर्वमतेन न भवति मुक्तो जन्मशतेन । भज. ।।6।।
सोऽहं हंसो ब्रह्मौवाहं शुद्धानन्दस्तत्त्वपरोऽहम् ।
अद्वैतोऽहं संगविहीने चेन्द्रिय आत्मनि निखिले लीने । भज. ।।7।।
शंकरकिंकर मा कुरु चिन्तां चिंतामणिना विरचितमेतत् ।
य: सद्भक्त्या पठति हि नित्यं ब्रह्मणि लीनो भवति हि सत्यम् । भज. ।।8।।